|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.11. अध्यायः 011
Mahabharata - Virata Parva - Chapter Topics
अर्जुनेन षण्डवेषपरिग्रहेण विराटसभाप्रवेशः ॥ 1 ॥ विराटेनार्जुनस्य कन्यानाटने नियोजनम् ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-11-0x(3025)(28594)
अथापरोऽदृश्यत वर्णवान्युवा स्त्रीवेषधारी समलंकृतो भृशम्।
प्रवालचित्रे प्रविमुच्य कुण्डले उभे च कम्बू परिपातुके तथा ॥ 1 ॥ 4-11-1(28595)
कृष्णे च रक्ते च निबध्य वाससी शरीरवाञ्शुक्रबृहस्पतिप्रभः।
बहूंश्च दीर्घांश्च विकीर्य मूर्धजान्महाभुजो मत्तगजेन्द्रविक्रमः ॥ 2 ॥ 4-11-2(28596)
क्लैब्येन वेषेण न भति भाति च ग्रहाभिपन्नो नभसीव चन्द्रमाः ।
गतेन चोर्वी परिकम्पयंस्तदा विराटमासाद्य सभासमीपतः ॥ 3 ॥ 4-11-3(28597)
तं प्रेक्ष्य राजोपगतं सभातले व्याजाप्रतिच्छन्नममित्रमर्दनम् ।
विराजमानं सुरराजवर्चसं सुतं सुरेन्द्रस्य गजेन्द्रविक्रमम् ॥ 4 ॥ 4-11-4(28598)
सर्वानपृच्छच्च समीपचारिणः कुतोऽयमायाति न मे पुरा श्रुतः।
न चैनमूचुर्विदितं नरास्तदा सविस्मयं वाक्यमिदं नृपोऽब्रवीत् ॥ 5 ॥ 4-11-5(28599)
विराट उवाच। 4-11-6x(3026)
गजेन्द्रलीलो मृगराजगामी वृषेक्षणो देवसुतोग्रतेजाः।
पीनांसबाहुः कनकावदातः कोऽयं नरो मे नगरं प्रविष्टः ॥ 6 ॥ 4-11-6(28600)
किमेष देवेन्द्रसुतः किमेष ब्रह्मात्मजो वा किमयं स्वयंभूः।
उमासुतो वैश्रवणात्मजो वा प्रेक्ष्यैनमासीदिति मे वितर्कः ॥ 7 ॥ 4-11-7(28601)
वैशम्पायन उवाच। 4-11-8x(3027)
सभामतिक्रम्य स वासवोपमो निरीक्षमाणो बहुभिः सभागतैः।
स तत्र राजनममित्रहाऽब्रवीद्बृहन्नलाहं नरदेव नर्तकी ॥ 8 ॥ 4-11-8(28602)
वेणीं प्रकुर्यां रुचिरे च कुण्डले ग्रथे स्रजः प्रावरणानि संहरे।
स्नानं चरेयं विमृजे च दर्पणं विशेषकेष्वेव च कौशलं मम ॥ 9 । 4-11-9(28603)
क्लीबेषु बालेषु जनेषु नर्तने शिक्षाप्रदानेषु च योग्यता मम।
करोमि वेणीषु च पुष्पपूरकं न मे स्त्रियः कर्मणि कौशलाधिकाः ॥ 10 ॥ 4-11-10(28604)
इत्यर्जुनस्तं नरदेवमोजसा विज्ञाप्य तस्थौ विधिनाऽऽत्मनः क्रियाम्।
तमब्रवीत्प्रांशुमुदीक्ष्य विस्मितो विराटराजोपसृतं महायशाः ॥ 11 ॥ 4-11-11(28605)
नार्हस्तु वेषोऽयमनूर्जितस्ते नापुंस्त्वमर्हं नरदेवसिंह ।
तवैव वेषः शुभवेषभूषणैर्विभूषितो भूतपतेरिव प्रभो ॥ 12 ॥ 4-11-12(28606)
विभाति भानोरिव रश्मिमालिनो घनावरुद्धे गगने घनैरिव।
धनुर्हि मन्ये तव शोभयेद्भुजौ तथाहि पीनावतिमात्रमायतौ ॥ 13 ॥ 4-11-13(28607)
प्रगृह्य चापं त्वनुरूपमात्मनो रक्षस्व देशं पुरमद्य सुस्थिरः।
पुत्रेण तुल्यो भव मे बृहन्नले वृद्धोस्मि वित्तं प्रतिपादयामि ते ॥ 14 ॥ 4-11-14(28608)
त्वं रक्ष मे सर्वमिदं पुरं प्रभो न षण्डतां कांचन लक्षयामि ते।
प्रशाधि मत्स्यांस्तरसा विवर्धयन्ददामि राज्यं तव सत्यवागहम् ॥ 15 ॥ 4-11-15(28609)
वैशम्पायन उवाच। 4-11-16x(3028)
तस्याग्रतः स्वानि धनूंषि पार्थिवो बहूनि दीर्घाणि च वर्णवन्ति च।
ददौ स सज्यानि बलान्वितानि जिज्ञासमानः किमयं करिष्यति ॥ 16 ॥ 4-11-16(28610)
ततोऽर्जुनः क्लीबतरं वचोऽब्रवीन्न मे धनुर्धारितमीदृशं विभो।
न चापि दृष्टं धनुरीदृशं क्वचिन्न मादृशाः सन्ति धनुर्धरा भुवि ॥ 17 ॥ 4-11-17(28611)
नृत्याम गायामि च वादयाम्यहं प्रानर्तने कौशलनैपुणं मम।
तदुत्तरायाः परिधत्स्व नर्तने भवामि देव्या नरदेव नर्तकी ॥ 18 ॥ 4-11-18(28612)
विराट उवाच। 4-11-19x(3029)
ददामि ते तं हि वरं बृहन्नले सुतां हि मे नर्तय याश्च तादृशीः ।
ततो विराटः स्वयमाह्वयत्सुतां नराधिपस्तां च सुमध्यसुन्दरीम् ॥ 19 ॥ 4-11-19(28613)
उवाच चैनां मुदितेन चेतसा बृहन्नला नाम सखी भवत्वियम्।
सुगात्रि संप्रीतिसुबद्धसौहृदा तवाङ्गने प्राणसमा च नित्यदा ॥ 20 ॥ 4-11-20(28614)
प्रकामभक्ष्याभरणाम्बरा शुभा चरत्वियं सर्वजनेष्ववारिता।
न दुष्कुलानामियमाकृतिर्भवेन्न वृत्तभेदी भवतीदृशो जनः ॥ 21 ॥ 4-11-21(28615)
वैशम्पायन उवाच। 4-11-22x(3030)
संमन्त्र्य राजा विविधैः स्वमन्त्रिभिः परीक्ष्य चैनं प्रमदाभिराशु वै।
अपुंस्त्वमप्यस्य निशम्य च स्थिरं ततः कुमारीपुरमुत्ससर्ज तम् ॥ 22 ॥ 4-11-22(28616)
स शिक्षयामास च गीतवदनं सुतां विराटस्य धनंजयः प्रभुः ।
सखीश्च तस्याः परिचारिकास्तथा प्रियश्च तस्याः स बभूव पाण्डवः ॥ 23 ॥ 4-11-23(28617)
तथा स तत्रैव धनंजयोऽवसत्प्रियाणि कुर्वन्त्सह ताभिरात्मवान्।
तथा गतं तत्र न जझिरे जना बहिश्चरा वाऽप्यथवेतरे जनाः ॥ 24 ॥ ॥ 4-11-24(28618)
इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि एकादशोऽध्यायः ॥ 11 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|